कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः
तारिताः पितरस्तेन यास्यन्ति परमां गतिम्
शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत्
शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः
गयांयास्यतियः कश्चित् सो ऽस्मान् संतारयिष्यति
गयां यास्यति वंश्यो यः सो ऽस्मान् संतारयिष्यति
तेषां तु समवेतानां यद्येको ऽपि गयां व्रजेत्
प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः
कुलान्युभयतः सप्त समुद्धृत्याप्नुयात् परम्
प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः
कृत्वा लोकमवाप्नोति ब्रह्मणो ऽक्षय्यमुत्तमम्
पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत्
ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम्
सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम्
तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम्
उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम्
एकाम्रं देवदेवस्य गाणपत्यफलप्रदम्
सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात्
ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः
तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते
तत्र नारायणः श्रीमानास्ते परमपूरुषः
ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात्
सर्वपापहरं शंभोर्निवासः परमेष्ठिनः
ईप्सितांल्लभते कामान् रुद्रस्य दयितो भवेत्
महादेवस्यार्चयित्वा शिवसायुज्यमाप्नुयात्
तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः
संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते
कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः
पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः
मृतो ऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात्