सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम्
पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः
स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम्
समाश्वास्य मुनीन् सूतं जगाम च यथागतम्
तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम्
कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः
एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम्
प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम्
ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम्
ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम्
कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः
तारिताः पितरस्तेन यास्यन्ति परमां गतिम्
शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत्
शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः
गयांयास्यतियः कश्चित् सो ऽस्मान् संतारयिष्यति
गयां यास्यति वंश्यो यः सो ऽस्मान् संतारयिष्यति
तेषां तु समवेतानां यद्येको ऽपि गयां व्रजेत्
प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः
कुलान्युभयतः सप्त समुद्धृत्याप्नुयात् परम्
प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः
कृत्वा लोकमवाप्नोति ब्रह्मणो ऽक्षय्यमुत्तमम्
पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत्
ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम्
सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम्
तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम्
उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम्
एकाम्रं देवदेवस्य गाणपत्यफलप्रदम्
सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात्
ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः
तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते