महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम्
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम्
हिरण्यमये गृहे गुप्तं महान्तममितौजसम्
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम्
भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा
आविरासीत् सुदीप्तात्मा तेजसा प्रदहन्निव
सीतामादाय धर्मिष्ठां पावको ऽन्तरधीयत
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम्
मसादायाभवत् सीतां शङ्काकुलितमानसः
विवेश पावकं दीप्तं ददाह ज्वलनो ऽपि ताम्
रामायादर्शयत् सीतां पावको ऽभूत् सुरप्रियः
चकार प्रणतिं भूमौ रामाय जनकात्मजा
ननाम वह्निं सिरसा तोषयामास राघवः
दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता
यथावृत्तं दाशरथिं भूतानामेव सन्निधौ
आराध्य लब्धा तपसा देव्याश्चात्यन्तवल्लभा
भवानीपार्श्वमानीता मया रावणकामिता
मया मायामयी सृष्टा रावणस्य वधाय सा
मयोपसंहृता चैव हतो लोकविनाशनः
पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम्
मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत
स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम्
स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात्
मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः
महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम्
स पश्यति महादेवं नान्यः कल्पशतैरपि
न तस्मादधिको लोके स योगी परमो मतः
स योगयुक्तो ऽपि मुनिर्नात्यर्थं भगवत्प्रियः
धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै