एको ऽहं प्रबलो नान्यो मां वै को ऽबिभविष्यति
सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः
न मात्सर्याभियोगेन द्वाराणि पिहितानि मे
को हि बाधितुमन्विच्छेद् देवदेवं पितामहम्
सर्वमन्वय कल्याणं यन्मयापहृतं तव
पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय
प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत
सर्वभूतान्तरात्मा वै परं बह्म सनातनम्
मन्मयं सर्वमेवेदं ब्रह्माहं पुरुषः परः
एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ
इयं प्रतिज्ञा भवतो विनाशाय भविष्यति
प्रधानपुरुषेशानं वेदाहं परमेश्वरम्
अनादिनिधनं ब्रह्म तमेव शरणं व्रज
भवान् न नूनमात्मानं वेत्ति तत् परमक्षरम्
नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः
तस्य तत् क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत
न मे ऽस्त्यविदितं ब्रह्मन् नान्यथाहं वदामिते
मायाशेषविशेषाणां हेतुरात्मसमुद्भावा
ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम्
प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत् ततो हरः
त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः
मालामत्यद्भुताकारां धारयन् पादलम्बिनीम्
मोहितो माययात्यर्थं पीतवाससमब्वीत्
तेजोराशिरमेयात्मा समायाति जनार्दन
अपश्यदीश्वरं देवं ज्वलन्तं विमले ऽम्भसि
प्रोवाचोत्थाय भगवान् देवदेवं पितामहम्
अनादिनिधनो ऽचिन्त्यो लोकानामीश्वरो महान्
भूतानामधिपो योगी महेशो विमलः शिवः
यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः
कालो भूत्वा महादेवः केवलो निष्कलः शिवः