स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः
व्रतेष्वेतेषु कुर्वोत शान्तः संयतमानसः
ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः
सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः
पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते
ग्रहणादिषु कालेषु महापातकशोधनम्
नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः
भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम्
सर्वपापसमुद्भूतौ नात्र कार्या विचारणा
न तस्या विद्यते पापमिह लोके परत्र च
नास्याः पराभवं कर्तुं शक्नोतीह जनः क्वचित्
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम्
सीतां विशालनयनां चकमे कालचोदितः
समाहर्तुं मतिं चक्रे तापसः किल कामिनीम्
जगाम शरणं वह्निमावसथ्यं शुचिस्मिता
कृताञ्जली रामपत्नी शाक्षात् पतिमिवाच्युतम्
दाहकं सर्वभूतानामीशानं कालरूपिणम्
आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम्
भूतेशं कृत्तिवसनं शरण्यं परमं पदम्
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम्
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम्
हिरण्यमये गृहे गुप्तं महान्तममितौजसम्
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम्
भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा
आविरासीत् सुदीप्तात्मा तेजसा प्रदहन्निव
सीतामादाय धर्मिष्ठां पावको ऽन्तरधीयत
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम्
मसादायाभवत् सीतां शङ्काकुलितमानसः