स्पृष्ट्वाभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत्
स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः
अनातुरः सति धने कृच्छ्रार्धेन स शुद्ध्यति
ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धमाचरेत्
सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च
मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम्
छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम्
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति
कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती
स्नात्वानश्नन्नहः शेषं प्रणिपत्य प्रसादयेत्
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत्
कृच्छ्रातिकृच्छ्रौ कुर्वोत विप्रस्योत्पाद्य शोणितम्
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम्
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा
शिश्नस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत्
कृत्वा सम्यक् प्रकुर्वोत प्राजापत्यं द्विजोत्तमः
दृष्ट्वा वीक्षेत भास्वन्तं स्म्वत्वा विशेश्वरं स्मरेत्
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि
प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते
चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम्
देवताभ्यर्चनं नॄणामशेषाघविनाशनम्
ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते
संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः
यमाच धर्मराजाय मृत्यवे चान्तकाय च