अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः
चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः
प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम्
त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति
उच्छिष्टस्तत्र कुर्वोत प्राजापत्यं विशुद्धये
स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टं पतितिं तथा
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः
आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः
कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् घृतम्
स्पृष्ट्वाभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत्
स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः
अनातुरः सति धने कृच्छ्रार्धेन स शुद्ध्यति
ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धमाचरेत्
सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च
मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम्
छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम्
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति
कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती
स्नात्वानश्नन्नहः शेषं प्रणिपत्य प्रसादयेत्
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत्
कृच्छ्रातिकृच्छ्रौ कुर्वोत विप्रस्योत्पाद्य शोणितम्
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम्
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा
शिश्नस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत्