अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत्
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः
भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत्
शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम्
गोमूत्रयावकाहारः पीतशेषं च रागवान्
तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम्
चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम्
त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि
बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत्
प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति
बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः
भुक्त्वोपवासं कुर्वोत कृच्छ्रपादमथापि वा
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति
गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति
अहोरात्रेण शुद्ध्येत श्मश्रुकर्म च मैथुनम्
त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः
कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये
चरेत् सांतपनं कृच्छ्रमित्याह भगवान् प्रभुः
चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च
शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्धनाः
अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि
गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये
स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात्
स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम्
चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति
देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति
त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम्
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम्