मतिपूर्वं वधे चास्याः प्रायश्चित्तं न विद्यते
वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु
चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये
स्वजातीयगृहादेव कृच्छ्रार्धेन विशुद्ध्यति
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम्
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम्
अयः कांस्योपलानां च द्वादशाहं कणाशनम्
पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम्
व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु
चक्रवाकं प्लवं जग्घ्वा द्वादशाहमभोजनम्
उलूकं जालपादं च जग्ध्वाप्येतद् व्रतं चरेत्
जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम्
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति
रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत्
भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये
प्राजापत्यं चरेज्जग्ध्वा शङ्खं कुम्भीकमेव च
नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति
प्राजापत्येन शुद्धिः स्यात् कक्कुभाण्डस्य भक्षणे
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति
भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति
संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत्
गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति
चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः
चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः
अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च
अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति