मुच्यते ह्यवकीर्णो तु ब्राह्मणानुमते स्थितः
रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत्
संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः
नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते
अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम्
प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम्
कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा
गोसहस्रार्धपादं च दद्यात् तत्पापशान्तये
हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम्
वत्सरेण विशुद्ध्येत शूद्रां हत्वा द्विजोत्तमः
पराकेणाथवा शुद्धिरित्याह भगवानजः
श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः
कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः
पलालभारं षण्डं च सैसकं चैकमाषकम्
शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम्
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम्
अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम्
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति
गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम्
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम्
मतिपूर्वं वधे चास्याः प्रायश्चित्तं न विद्यते
वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु
चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये
स्वजातीयगृहादेव कृच्छ्रार्धेन विशुद्ध्यति
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम्
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम्
अयः कांस्योपलानां च द्वादशाहं कणाशनम्
पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम्