षाण्मासिके तु संसर्गे प्रायश्चित्तार्धमर्हति
पुण्यतीर्थाभिगमनात् पृथिव्यां वाथ निष्कृतिः
कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः
ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम्
तस्मात् पुण्येषु तीर्थेषु दहेद् वापि स्वदेहकम्
प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः
भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ
ध्यायन् देवं जगद्योनिमनादिनिधनं परम्
चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः
मातुलस्य सुतां वापि गत्वा चान्द्रायणं चरेत्
अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत्
सह सांतपनेनास्य नान्यथा निष्कृतिः स्मृता
चाद्रायणेन शुध्येत प्रयतात्मा समाहितः
कन्यकां दूषयित्वा तु चरेच्चान्द्रायणव्रतम्
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत्
गवि भथुनमासेव्य चरेच्चान्द्रायणव्रतम्
पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम्
सप्तगारं चरेद् भैक्षं वसित्वा गर्दभाजिनम्
संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते
मुच्यते ह्यवकीर्णो तु ब्राह्मणानुमते स्थितः
रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत्
संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः
नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते
अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम्
प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम्
कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा
गोसहस्रार्धपादं च दद्यात् तत्पापशान्तये
हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम्
वत्सरेण विशुद्ध्येत शूद्रां हत्वा द्विजोत्तमः