कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम्
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः
पयो घृतं जलं वाथ मुच्यते पातकात् ततः
ब्रह्महत्याव्रतं चाथ चरेत् तत्पापशान्तये
स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति
वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसैव वा
शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा
आचक्षाणेन तत्पापमेवङ्कर्मास्मि शाधि माम्
अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम्
चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम्
प्रदद्याद् वाथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम्
ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये
अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम्
आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः
अधः शयीत नियतो मुच्यते गुरुतल्पगः
अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः
स्थानासनाभ्यां विहरंस्त्रिरह्नो ऽभ्युपयन्नपः
चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत्
षाण्मासिके तु संसर्गे प्रायश्चित्तार्धमर्हति
पुण्यतीर्थाभिगमनात् पृथिव्यां वाथ निष्कृतिः
कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः
ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम्
तस्मात् पुण्येषु तीर्थेषु दहेद् वापि स्वदेहकम्
प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः
भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ
ध्यायन् देवं जगद्योनिमनादिनिधनं परम्
चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः
मातुलस्य सुतां वापि गत्वा चान्द्रायणं चरेत्