न विद्यते ऽनाभ्युदिता तव त्रिपुरमर्दन
दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता
संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम्
प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः
प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम्
चिरं ध्यात्वा जगद्योनिः शङ्करं प्राह सर्ववित्
यत्राखिलजगद्दोषं क्षिप्रं नाशयताश्वरः
जगाम लीलया देवो लोकानां हितकाम्यया
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः
अथास्थायापरं रूपं नृत्यदर्शनलालसः
सस्मितो ऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः
भेजे महादेवपुरीं वाराणसीमिति श्रुताम्
हा हेत्युक्त्वा सनादं सा पातालं प्राप दुः खिता
गणानामग्रतो देवः स्थापयामास शङ्करः
उक्त्वा सजीवमस्त्वीशो विष्णवे स घृणानिधिः
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्
तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया
देहान्ते तत् परं ज्ञानं ददामि परमं पदम्
सहैव प्रमथेशानैः क्षणादन्तरधीयत
स्वं देशमगत् तूर्णं गृहीत्वां परमं वपुः
कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम्
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः
पयो घृतं जलं वाथ मुच्यते पातकात् ततः
ब्रह्महत्याव्रतं चाथ चरेत् तत्पापशान्तये
स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति
वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसैव वा
शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा
आचक्षाणेन तत्पापमेवङ्कर्मास्मि शाधि माम्
अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम्