तावत् त्वं भीषणे कालमनुगच्छ त्रिलोचनम्
अटस्व निखिलं लोकं भिक्षार्थो मन्नियोगतः
तदासौ वक्ष्यति स्पष्टमुपायं पापशोधनम्
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम्
श्रीमत् पवित्रमतुलं जटाजूटविराजितम्
भाति कालाग्निनयनो महादेवः समावृतः
लीलाविलासूबहुलो लोकानागच्छतीश्वरः
रूपलावण्यसंपन्नं नारीकुलमगादनु
सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च
जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः
सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे
न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः
विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः
भीषणो भैरवादेशात् कालवेग इति श्रुतः
रुद्रायाभिमुखं रौद्रं चिक्षेप च सुदर्शनम्
तमापतन्तं सावज्ञमालोकयदमित्रजित्
शूलेनोरसि निर्भिद्य पातयामास तं भुवि
तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव
विवेश चान्तरगृहं समादाय कलेवरम्
शिरो ललाटात् संभिद्य रक्तधारामपातयत्
न विद्यते ऽनाभ्युदिता तव त्रिपुरमर्दन
दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता
संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम्
प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः
प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम्
चिरं ध्यात्वा जगद्योनिः शङ्करं प्राह सर्ववित्
यत्राखिलजगद्दोषं क्षिप्रं नाशयताश्वरः
जगाम लीलया देवो लोकानां हितकाम्यया
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः
अथास्थायापरं रूपं नृत्यदर्शनलालसः