अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते
हिरण्यगर्भपुत्रो ऽसावीश्वरो दृश्यते किल
न मुञ्चति सदा पार्श्वं शङ्करो ऽसावदृश्यत
दत्त्वा तरति संसारं रुद्रो ऽसौ दृश्यते किल
कालः किल स योगात्मा कालकालो हि दृश्यते
सोमः स दृश्यते देवः सोमो यस्य विभूषणम्
गीयते परमा मुक्तिः स योगी दृश्यते किल
योगं ध्यायन्ति देव्यासौ स योगी दृश्यते किल
वरासने समासीनमवाप परमां स्मृतिम्
तोषयामास वरदं सोमं सोमविभूषणम्
नमः शिवाय शान्ताय शिवायै शान्तये नमः
नमो मूलप्रकृतये महेशाय नमो नमः
नमस्ते कालकालाय ईश्वरायै नमो नमः
नमो नमस्ते कामाय मायायै च नमो नमः
नमो ऽस्तु ते प्रकृतये नमो नारायणाय च
नमः संसारनाशाय संसारोत्पत्तये नमः
नमः कार्यविहीनाय विश्वप्रकृतये नमः
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः
पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम्
प्रोवाचोत्थाप्य हस्ताभ्यां प्रतो ऽस्मि तव सांप्रतम्
प्रोवाचाग्रे स्थितं देवं नीललोहितमीश्वरम्
आत्मनो रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव
स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः
शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया
चरस्व सततं भिक्षां संस्थापय सुरद्विजान्
स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम्
ग्राहयामास वदनं ब्रह्मणः कालभैरवम्
कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः
दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम्