मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम्
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः
यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक्
योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः
महेशं पुरुषं रुद्रं स देवो भगवान् भवः
श्रुत्वाह प्रहसन् वाक्यं विश्वात्मापि विमोहितः
रमते भार्यया सार्धं प्रमथैश्चातिगर्वितैः
अमूर्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम्
कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः
स्वानन्दभूता कथिता देवी नागन्तुका शिवा
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया
प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम्
व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः
तेन तन्मण्जलं घोरमालोकयदनिन्दितम्
क्षणाददृश्यत महान् पुरुषो नीललोहितः
तं प्राह भगवान् ब्रह्मा शङ्करं नीललोहितम्
प्रादुर्भावं महेशान् मामेव शरणं व्रज
प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम्
चकर्त तस्य वदनं विरिञ्चस्याथ पञ्चमम्
ममार चेशयोगेन जीवितं प्राप विश्वसृक्
समासीनं महादेव्या महादेवं सनातनम्
कोटिसूर्यप्रतीकाशं जटाजूटविराजितम्
त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम्
तमादिदेवं ब्रह्माणं महादेवं ददर्श ह
सो ऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते
विमोचयति लोकानां नायको दृश्यते किल
विदन्ति विमलं रूपं स शंभुर्दृश्यते किल