तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया
कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि
माहात्म्यं देवदेवस्य महादेवस्य धीमतः
प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम्
अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम्
अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते
न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन
प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः
अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव
न मामृते ऽस्य जगतो जीवनं सर्वदा क्वचित्
मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम्
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः
यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक्
योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः
महेशं पुरुषं रुद्रं स देवो भगवान् भवः
श्रुत्वाह प्रहसन् वाक्यं विश्वात्मापि विमोहितः
रमते भार्यया सार्धं प्रमथैश्चातिगर्वितैः
अमूर्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम्
कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः
स्वानन्दभूता कथिता देवी नागन्तुका शिवा
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया
प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम्
व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः
तेन तन्मण्जलं घोरमालोकयदनिन्दितम्
क्षणाददृश्यत महान् पुरुषो नीललोहितः
तं प्राह भगवान् ब्रह्मा शङ्करं नीललोहितम्
प्रादुर्भावं महेशान् मामेव शरणं व्रज
प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम्