प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता
इदानीं संशयं चेममस्माकं छेत्तुमर्हसि
पुत्रत्वमगच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः
अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि
पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च
आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः
आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः
सहस्त्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः
महाविभूतिर्योगात्मा योगिनां हृदयालयः
त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ
दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम्
हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे
प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः
एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ
उवाच देवं ब्रह्माणं मेघगम्भीरनिः स्वनः
महायोगेश्वरं मां त्वं जानीहि पुरुषोत्तमम्
सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम्
जानन्नपि महायोगी को भवानिति वेधसम्
प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा
मय्येव संस्थितं विश्वं ब्रह्माहं विश्वतोमुखः
अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम्
उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः
अजातशत्रुर्भगवान् पितामहमथाब्रवीत्
प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ
श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः
पर्यटित्वा तु देवस्य ददृशे ऽन्तं न वै हरेः
जनार्दनेन ब्रह्मासौ नाभ्यां द्वारमविन्दत
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः
ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः
प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा