स देवस्तु महादेवो नैतद् विज्ञाय बध्यते
ज्ञानयोगरतः शान्तो महादेवपरायणः
पितामहेन विभुना मुनीनां पूर्वमीरितम्
ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्माश्रयं शिवम्
प्रणिहितमनसो ये नित्यमेवाचरन्ति
हिताय सर्वविप्राणां दोषाणामपनुत्तये
दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम्
यद् ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत्
स एव स्यात् परो धर्मो यमेको ऽपि व्यवस्यति
यद् ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम्
वेदाध्ययनसंपन्नाः सप्तैते परिकीर्तिताः
एकविंशतिसंख्याताः प्रयाश्चित्तं वदन्ति वै
महापातकिनस्त्वेते यश्चैतैः सह संवसेत्
यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत्
कृत्वा सद्यः पतेज्ज्ञानात् सह भोजनमेव च
संवत्सरेण पतति सहाध्ययनमेव च
भैक्षमात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम्
विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन्
विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने
वन्यमूलफलैर्वापि वर्तयेद् धैर्यमाक्षितः
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति
कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित्
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम्
ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु
दत्त्वा चान्नं स दुर्भिक्षे ब्रह्महत्यां व्यपोहति
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु
शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः
ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते
स्नात्वाभ्यर्च्य पितॄन् भक्त्या ब्रह्महत्यां व्यपोहति
कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः