ध्यायेदनादिमद्वैतमानन्दादिगुणालयम्
सितेतरारुणाकारं महेशं विश्वरूपिणम्
आकाशे देवमीशानं ध्यायीताकाशमध्यगम्
पुराणं पुरुषं शंभुं ध्यायन् मुच्येत बन्धनात्
विचिन्त्य परमं व्योम सर्वभूतैककारणम्
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः
यो ऽनुतिष्ठेन्महेशेन सो ऽश्नुते योगमैश्वरम्
ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात्
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम्
स तस्मादीश्वरो देवः परस्माद् यो ऽधितिष्ठति
यदंशस्तत्परो यस्तु स देवः स्यान्महेश्वरः
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते
प्राणायामसमायुक्तं कुर्यात् सांतपनं शुचिः
पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः
तथापि च न कर्तव्यं प्रसङ्गो ह्येष दारुणः
उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना
हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका
स तस्य हरति प्राणान् यो यस्य हरते धनम्
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम्
भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः
कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा
दिवास्कन्दे त्रिरात्रं स्यात् प्राणायामशतं तथा
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम्
तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत्
यो ऽन्तरात्र परं ब्रह्म स विज्ञेयो महेश्वरः
तदेवाक्षरमद्वैतं तदादित्यान्तरं परम्
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः
तमेवात्मानमन्वेति यः स याति परं पदम्
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः