प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु तत्
भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत्
भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम्
चत्वारि यतिपात्राणि मनुराह प्रजापतिः
संध्यास्वह्नि विशेषेण चिन्तयेन्नित्यमीश्वरम्
आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम्
प्रधानपुरुषातीतमाकाशं दहनं शिवम्
ध्यायेदनादिमद्वैतमानन्दादिगुणालयम्
सितेतरारुणाकारं महेशं विश्वरूपिणम्
आकाशे देवमीशानं ध्यायीताकाशमध्यगम्
पुराणं पुरुषं शंभुं ध्यायन् मुच्येत बन्धनात्
विचिन्त्य परमं व्योम सर्वभूतैककारणम्
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः
यो ऽनुतिष्ठेन्महेशेन सो ऽश्नुते योगमैश्वरम्
ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात्
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम्
स तस्मादीश्वरो देवः परस्माद् यो ऽधितिष्ठति
यदंशस्तत्परो यस्तु स देवः स्यान्महेश्वरः
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते
प्राणायामसमायुक्तं कुर्यात् सांतपनं शुचिः
पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः
तथापि च न कर्तव्यं प्रसङ्गो ह्येष दारुणः
उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना
हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका
स तस्य हरति प्राणान् यो यस्य हरते धनम्
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम्