धौतकाषायवसनो भस्मच्छन्नतनूरहः
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत्
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम्
क्षमा दया च सतोषो व्रतान्यस्य विशेषतः
कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि
स्वाध्यायं चान्वहं कुर्यात् सावित्रीं संध्ययोर्जपेत्
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम्
कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम्
भैक्षेण वर्तनं प्रोक्तं फलमूलैरथापि वा
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति
प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु तत्
भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत्
भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम्
चत्वारि यतिपात्राणि मनुराह प्रजापतिः
संध्यास्वह्नि विशेषेण चिन्तयेन्नित्यमीश्वरम्
आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम्
प्रधानपुरुषातीतमाकाशं दहनं शिवम्
ध्यायेदनादिमद्वैतमानन्दादिगुणालयम्
सितेतरारुणाकारं महेशं विश्वरूपिणम्
आकाशे देवमीशानं ध्यायीताकाशमध्यगम्
पुराणं पुरुषं शंभुं ध्यायन् मुच्येत बन्धनात्
विचिन्त्य परमं व्योम सर्वभूतैककारणम्
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः
यो ऽनुतिष्ठेन्महेशेन सो ऽश्नुते योगमैश्वरम्
ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात्
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम्