अथर्वशिरसो ऽध्येता वेदान्ताभ्यासतत्परः
कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान्
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत्
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च
अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः
याति यत्र जगतो ऽस्य संस्थितिः
चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात्
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः
तदा संन्यासमिच्छेच्च पतितः स्याद् विपर्यये
दान्तः पक्वकषायो ऽसौ ब्रह्माश्रममुपाश्रयेत्
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः
प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः
अध्यात्ममतिरासीत निरपेक्षो निरामिषः
नाभिनन्देत मरणं नाभिनन्देत जीवितम्
एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते
काषायवासाः सततं ध्यानयोगपरायणः
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत् क्वचित्
न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते
प्राणिहंसानिवृत्तश्च मौनी स्यात् सर्वनिस्पृहः
सत्यपूतां वदेद् वाणीं मनः पूतं समाचरेत्
स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः
मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः
आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात्
स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु