षण्मासनिचयो वा स्यात् समानिचय एव वा
जीर्णानि चैव वासांसि शाकमूलफलानि च
अश्मकुट्टो भवेद् वापि कालपक्वभुगेव वा
चतुर्थकालिको वा स्यात् स्याद्वाप्यष्टमकालिकः
पक्षे पक्षे समश्नीयाद् यवागूं क्वथितां सकृत्
स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः
स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत्
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः
एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा
शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर् वा वर्तयेत् सदा
अथर्वशिरसो ऽध्येता वेदान्ताभ्यासतत्परः
कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान्
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत्
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च
अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः
याति यत्र जगतो ऽस्य संस्थितिः
चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात्
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः
तदा संन्यासमिच्छेच्च पतितः स्याद् विपर्यये
दान्तः पक्वकषायो ऽसौ ब्रह्माश्रममुपाश्रयेत्
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः
प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः
अध्यात्ममतिरासीत निरपेक्षो निरामिषः
नाभिनन्देत मरणं नाभिनन्देत जीवितम्