अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत्
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते
न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात्
स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम्
उद्वेजयति भूतानि यथा चौरस्तथैव सः
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः
वर्तमानः संयातात्मा याति तत् परमं पदम्
एकाकी विचरेन्नित्यमुदासीनः समाहितः
ज्ञात्वानुतिष्ठेन्नियतं तथानुष्ठापयेद् द्विजान्
प्रकृतिं याति परं न याति जन्म
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च दृष्ट्वापत्यस्य चापत्यं जर्जरीकृतविग्रहः
गत्वारण्यं नियमवांस्तपः कुर्यात् समाहितः
यताहारो भवेत् तेन पूजयेत् पितृदेवताः
गृहादाहृत्य चाश्नीयादष्टौ ग्रासान् समाहितः
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः
मुन्यन्नैंर्विविधैर्मेध्यैः शाकमूलफलेन वा
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः
उत्तरायणं च क्रमशो दक्षस्यायनमेव च
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक्
शेषं समुपभुञ्जीत लवणं च स्वयं कृतम्
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च
न ग्रामजातान्यार्तो ऽपि पुष्पाणि च फलानि च
न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत्
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत्
तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः
न हि वेदे ऽधिकारो ऽस्य तद्वंशेप्येवमेव हि
शरण्यः सर्वभूतानां संविभागपरः सदा
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत्
शिलायां शर्करायां वा शयीत सुसमाहितः