सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत्
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः
अङ्कयित्वा स्वकाद् राष्ट्रात् तं राजा विप्रवासयेत्
स पूर्वाभ्यधिकः पापी नरके पच्यते नरः
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः
न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम्
स तेन कर्मणा पापी दहत्यासप्तमं कुलम्
तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम्
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये
पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित्
अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत्
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते
न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात्
स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम्
उद्वेजयति भूतानि यथा चौरस्तथैव सः
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः
वर्तमानः संयातात्मा याति तत् परमं पदम्
एकाकी विचरेन्नित्यमुदासीनः समाहितः
ज्ञात्वानुतिष्ठेन्नियतं तथानुष्ठापयेद् द्विजान्
प्रकृतिं याति परं न याति जन्म
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च दृष्ट्वापत्यस्य चापत्यं जर्जरीकृतविग्रहः
गत्वारण्यं नियमवांस्तपः कुर्यात् समाहितः
यताहारो भवेत् तेन पूजयेत् पितृदेवताः
गृहादाहृत्य चाश्नीयादष्टौ ग्रासान् समाहितः
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः
मुन्यन्नैंर्विविधैर्मेध्यैः शाकमूलफलेन वा
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः
उत्तरायणं च क्रमशो दक्षस्यायनमेव च
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक्