आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः
स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम्
अमावास्यायां भक्तैस्तु पूजनीयस्त्रिलोचनः
अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम्
तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम्
दीयते विष्णवे वापि तदनन्तफलप्रदम्
ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषयेत् ततः
पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित्
द्विजेषु देवता नित्यं पूजनीया विशेषतः
ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः
कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम्
मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम्
सोर्ऽचयेद् वै विरूपाक्षं प्रयत्नेनेश्वरेश्वरम्
ते पूजयन्ति भूतेशं केशवं चापि भोगिनः
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम्
अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम्
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम्
वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः
प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत्
ददानो रोगरहितः सुखी दीर्घायुरेव च
तीव्रितापं च तरति छत्रोपानत्प्रदो नरः
तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम्
दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च
तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः
मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथान्वहम्
निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः