तस्माच्च शतरूपा सा पुत्रद्वयमसूयत
तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः
यज्ञश्च दक्षिणा चैव याभ्यां संवर्धितं जगत्
यामा इति समाक्यता देवाः स्वायंभुवे ऽन्तरे
ससर्ज कन्या नामानि तासां सम्यम् निबोधत
बुद्धिर्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः
संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित्
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते
क्रियायाश्चाभवत् पुत्रो दण्डः समय एव च
लज्जाया विनयः पुत्रो वपुषो व्यवसायकः
यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः
इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः
निकृत्यनृतयोर्जज्ञे भयं नरक एव च
भयाज्जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम्
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे
नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः
संक्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुङ्गवा
प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता
इदानीं संशयं चेममस्माकं छेत्तुमर्हसि
पुत्रत्वमगच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः
अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि
पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च
आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः
आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः
सहस्त्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः
महाविभूतिर्योगात्मा योगिनां हृदयालयः
त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ