धर्माविरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः
तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् यजेत्
ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम्
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम्
तद् वै वित्तमहं मन्ये शेषं कस्यापि रक्षति
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम्
अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम्
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम्
दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः
चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम्
उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः
अन्यथा दीयते यद्धि न तद् दानं फलप्रदम्
वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम्
स याति परमं स्थानं यत्र गत्वा न शोचति
ददाति वेदविदुषे यः स भूयो न जायते
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते
अन्नदानं तेन तुल्यं विद्यादानं ततो ऽधिकम्
ददाति विद्यां विधिना ब्रह्मलोके महीयते
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात्
आममेवास्य दातव्यं दत्त्वाप्नोति परां गतिम्
उपोष्य विधिना शान्तः शुचिः प्रयतमानसः
गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम्
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात्
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति
शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम्
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः
यत्किचिद् देवदेवेशं दद्याच्चोद्दिश्य शङ्करम्
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति