तस्माद् धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः
द्विजातेः परमो धर्मो वर्तनानि निबोधत
कुसीदकृषिवाणिज्यं प्रकुर्वोतास्वयङ्कृतम्
आपत्कल्पो ह्यं ज्ञेयः पूर्वोक्तो मुख्य इष्यते
कष्टा पापीयसी वृत्तिः कुसीदं तद् विवर्जयेत्
तस्मात् क्षात्रेण वर्तेत वर्तनेनापदि द्विजः
न कथञ्चन कुर्वोत ब्राह्मणः कर्म कर्षणम्
ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति
कृषीवलो न दोषेण युज्यते नात्र संशयः
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः
अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम्
त्र्यहैहिको वापि भवेदश्वस्तनिक एव च
श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा
अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम्
याचयेद् वा शुचिं दान्तं न तृप्येत स्वयं ततः
देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यसौ
धर्माविरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः
तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् यजेत्
ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम्
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम्
तद् वै वित्तमहं मन्ये शेषं कस्यापि रक्षति
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम्
अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम्
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम्
दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः
चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम्