सपिण्डीकरणं श्राद्धं देवपूर्वं विधीयते
यस्तु कुर्यात् पृथक् पिण्डं पितृहा सो ऽभिजायते
दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः
प्रतिसंवत्सरं कार्यं विधिरेष सनातनः
पत्नी कुर्यात् सुताभावे पत्न्य भावे सहोदहः
कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्य इहेष्यते
प्राप्नोति तत् परं स्थानं यदुक्तं वेदवादिभिः
दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि
पशुना त्वयनस्यान्ते समान्ते सौमिकैर्मखैः
नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृद्धिनः
पितॄंश्चैवाष्टकास्वर्चन् नित्यमन्वष्टकासु च
त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम्
यजेत वा न यज्ञेन स याति नरकान् बहून्
कुम्भीपाकं वैतरणीमसिपत्रवनं तथा
अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते
आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम्
तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम्
सो ऽसौ मूढो न संभाष्यः किं पुनर्नास्तिको जनः
अधिकं चापि विद्येत स सोमं पातुमर्हति
सोमेनाराधयेद् देवं सोमलोकमहेश्वरम्
समो वा विद्यते तस्मात् सोमेनाभ्यर्चयेत् परम्
धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्तो द्विधा पुनः
श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत्
शिष्टाचारस्तृतीयः स्याच्छ्रतिस्मृत्योरलाभतः
ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः
स धर्मः कथितः सद्भिर्नान्येषामिति धारणा
एकस्माद् ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः
धर्मशास्त्रं पुराणं तद् ब्रह्मज्ञाने परा प्रमा