अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु
स्नानेनैव भवेच्छुद्धिः सचैलेन न संशयः
बान्धवो वापरो वापि स दशाहेन शुध्यति
तदाशौचे निवृत्ते ऽसौ स्नानं कृत्वा विशुध्यति
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत्
सपिण्डानां तु मरणे मरणादितरेषु च
समानोदकभावस्तु जन्मनाम्नोरवेदने
लेपभाजस्त्रयश्चात्मा सापिण्ड्यं साप्तपौरुषण्
ऊढानां भर्तुसापिण्ड्यं प्राह देवः पितामहः
भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम्
दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ
राजा चैवाभिषिक्तश्च प्राणसत्रिण एव च
सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपद्रवे
सद्यः शौचं समाख्यातं सर्पादिमरणे तथा
ब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते
नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते
न चाश्रुपातपिण्डौ वा कार्यं श्राद्धादि कङ्क्वचित्
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम्
तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम्
हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम्
आशौचिनां गृहाद् ग्राह्यं शुष्कान्नं चैव नित्यशः
अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः
दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयान्वितैः
दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः
प्रेताय च गृहद्वारि चतुर्थे भोजयेद् द्विजान्
पूर्वं तु भोजयेद् विप्रानयुग्मान् श्रद्धया शुचीन्
अयुग्मान् भोजयेद् विप्रान् नवश्राद्धं तु तद्विदुः
एकं पवित्रमेकोर्ऽघः पिण्डपात्रं तथैव च
सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत् ततः