अशित्वा च सहोषित्वा दशरात्रेण शुध्यति
अनदन्नन्नमह्नैव न च तस्मिन् गृहे वसेत्
दशाहेन शवस्पर्शे सपिण्डश्चैव शुध्यति
दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः
षड्रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः
स्नात्वा संप्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः
अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः
त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम्
अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु
स्नानेनैव भवेच्छुद्धिः सचैलेन न संशयः
बान्धवो वापरो वापि स दशाहेन शुध्यति
तदाशौचे निवृत्ते ऽसौ स्नानं कृत्वा विशुध्यति
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत्
सपिण्डानां तु मरणे मरणादितरेषु च
समानोदकभावस्तु जन्मनाम्नोरवेदने
लेपभाजस्त्रयश्चात्मा सापिण्ड्यं साप्तपौरुषण्
ऊढानां भर्तुसापिण्ड्यं प्राह देवः पितामहः
भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम्
दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ
राजा चैवाभिषिक्तश्च प्राणसत्रिण एव च
सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपद्रवे
सद्यः शौचं समाख्यातं सर्पादिमरणे तथा
ब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते
नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते
न चाश्रुपातपिण्डौ वा कार्यं श्राद्धादि कङ्क्वचित्
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम्
तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम्
हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम्