एकरात्रं निर्गुणानां चैलादूर्ध्वं त्रिरात्रकम्
एकरात्रं सपिण्डानां यदि ते ऽत्यन्तनिर्गुणाः
सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः
तदा माससमैस्तासामशौचं दिवसैः स्मृतम्
सद्यः शौचं सपिण्डानां गर्भस्त्रावाच्च वा ततः
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः
शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम्
अघवृद्धिमदाशौचमूर्घ्वं चेत् तेन शुध्यति
अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते
तथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्तुरेव हि
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम्
आप्रदानात् त्रिरात्रं स्याद् दशरात्रमतः परम्
एकोदकानां मरणे सूतके चैतदेव हि
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि
गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः
त्रिरात्रं स्यात् तथाचार्ये स्वभार्यास्वन्यगासु च
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रिये ऽपि च
एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते
सद्यः शौचं समुद्दिष्टं सगोत्रे संस्थिते सति
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते
स्वमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम्
तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु
वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु
शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते
अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुङ्गवाः
दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः