संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः
एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः
चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः
यथेष्टाचरणस्याहुर्मरणान्तमशौवकम्
प्राक्संस्कारात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम्
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः
जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम्
मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च
ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः
एकरात्रं निर्गुणानां चैलादूर्ध्वं त्रिरात्रकम्
एकरात्रं सपिण्डानां यदि ते ऽत्यन्तनिर्गुणाः
सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः
तदा माससमैस्तासामशौचं दिवसैः स्मृतम्
सद्यः शौचं सपिण्डानां गर्भस्त्रावाच्च वा ततः
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः
शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम्
अघवृद्धिमदाशौचमूर्घ्वं चेत् तेन शुध्यति
अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते
तथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्तुरेव हि
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम्
आप्रदानात् त्रिरात्रं स्याद् दशरात्रमतः परम्
एकोदकानां मरणे सूतके चैतदेव हि
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि
गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः
त्रिरात्रं स्यात् तथाचार्ये स्वभार्यास्वन्यगासु च
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रिये ऽपि च