तिलोदकैस्तर्पयेद् वा पितॄन् स्नात्वा समाहितः
येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते
यो यस्य म्रियते तस्मै देयं नान्यस्य तेन तु
न जीवन्तमतिक्रम्य ददाति श्रूयते श्रुतिः
ऋक्यादर्धं समादद्यान्नियोगोत्पादितो यदि
प्रदद्याद् बीजिने पिण्डं क्षेत्रिणे तु ततो ऽन्यथा
कीर्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः
अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः
देववत्सर्वमेव स्याद् यवैः कार्या तिलक्रिया
नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत्
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम्
प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः
स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु
पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं बुधः
तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः
मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तमाः
नकुर्याद् विहितं किञ्चित् स्वाध्यायं मनसापिच
शुष्कान्नेन फलैर्वापि वैतानं जुहुयात् तथा
चतुर्थे पञ्चमे वाह्नि संस्पर्शः कथितो बुधैः
सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः
संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः
एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः
चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः
यथेष्टाचरणस्याहुर्मरणान्तमशौवकम्
प्राक्संस्कारात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम्
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः
जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम्
मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च
ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः