धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च
न पादेन स्पृशेदन्नं न चैतदवधूनयेत्
यातुधाना विलुम्पन्ति जल्पता चोपपादितम्
तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः
न चायसेन पात्रेण न चैवाश्रद्धया पुनः
दत्तमक्षयतां याति खड्गेन च विशेषतः
स याति नरकं घोरं भोक्ता चैव पुरोधसः
याचिता दापिता दाता नरकान् यान्ति दारुणान्
तावद्धि पितरो ऽश्नन्ति यावन्नोक्ता हविर्गुणाः
बहूनां पश्यतां सो ऽज्ञः पङ्क्त्या हरति किल्बिषम्
न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत्
स प्रेत्य पशुतां याति संभवानेकविंशतिम्
इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान्
पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः
स्वधास्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम्
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु वै द्विजैः
संपन्नमित्यभ्युदये दैवे रोचत इत्यपि
दक्षिणां दिशमाकाङ् क्षन्याचेतेमान् वरान् पितॄन्
श्रद्धा च नो मा व्यगमद् बहुदेयं च नोस्त्त्विति
मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी
पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत्
ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम्
महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः
स्वाध्यायं च तथाध्वानं कर्ता भोक्ता च वर्जयेत्
महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून्
आमेन वर्तयेन्नित्यमुदासीनो ऽथ तत्त्ववित्
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत्
व्यपेतकल्पषो नित्यं योगिनां वर्तते पदम्
आराधितो भवेदीशस्तेन सम्यक् सनातनः