वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्
ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः
ततो ऽसृजच्च भूतानि स्थावराणि चराणि च
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते
विनियोगं च भूतानां धातैव विदधात् स्वयम्
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
यदा चास्य प्रजाः सृष्टा न व्यवर्धन्त धीमतः
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम्
रजः सत्त्वं च संवृत्य वर्तमानां स्वधर्मतः
तत् तमः प्रतिनुन्नं वै मिथुनं समजायत
स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम्
अर्धेन नारी पुरुषो विराजमसृजत् प्रभुः
सा दिवं पृथिवीं चैव महम्ना व्याप्य संस्थिता
यो ऽभवत् पुरुषात् पुत्रो विराडव्यक्तजन्मनः
सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम्
तस्माच्च शतरूपा सा पुत्रद्वयमसूयत
तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः
यज्ञश्च दक्षिणा चैव याभ्यां संवर्धितं जगत्
यामा इति समाक्यता देवाः स्वायंभुवे ऽन्तरे
ससर्ज कन्या नामानि तासां सम्यम् निबोधत
बुद्धिर्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः
संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित्
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः