तत्सर्वमेव कर्तव्यं वैश्वदैवत्यपूर्वकम्
स्त्रग्दामभिः शिरोवेष्टैर्धूपवासो ऽनुलेपनैः
उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा
शं नो देव्या जलं क्षिप्त्वा यवो ऽसीति यवांस्तथा
प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः
आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः
शं नो देव्योदकं पात्रे तिलो ऽसीति तिलांस्तथा
पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधापयेत्
कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान्
प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवत्
पितृणां परिचर्यासु पातयेदितरं तथा
अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः
महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः
गोमयेनोपतिप्योर्वों स्थानं कृत्वा तु सैकतम्
त्रिरुल्लिखेत् तस्य मध्यं दर्भेणैकेन चैव हि
त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः
तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित्
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः
मांसान्यपूपान् विविधान् दद्यात् कृसरपायसम्
अन्नं चैव यथाकामं विविधं भक्ष्यपेयकम्
धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च
न पादेन स्पृशेदन्नं न चैतदवधूनयेत्
यातुधाना विलुम्पन्ति जल्पता चोपपादितम्
तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः
न चायसेन पात्रेण न चैवाश्रद्धया पुनः
दत्तमक्षयतां याति खड्गेन च विशेषतः
स याति नरकं घोरं भोक्ता चैव पुरोधसः
याचिता दापिता दाता नरकान् यान्ति दारुणान्
तावद्धि पितरो ऽश्नन्ति यावन्नोक्ता हविर्गुणाः