एकैकं वा भवेत् तत्र देवमातामहेष्वपि
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम्
श्रुतशीलादिसंपन्नमलक्षणविवर्जितम्
देवतायतने चास्मै निवेद्यान्यत्प्रवर्तयेत्
तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम्
उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत्
तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः
काकयोनिं व्रजन्त्येते दाता चैव न संशयः
कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः
नीलकाषायवसनं पाषण्डांश्च विवर्जयेत्
तत्सर्वमेव कर्तव्यं वैश्वदैवत्यपूर्वकम्
स्त्रग्दामभिः शिरोवेष्टैर्धूपवासो ऽनुलेपनैः
उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा
शं नो देव्या जलं क्षिप्त्वा यवो ऽसीति यवांस्तथा
प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः
आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः
शं नो देव्योदकं पात्रे तिलो ऽसीति तिलांस्तथा
पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधापयेत्
कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान्
प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवत्
पितृणां परिचर्यासु पातयेदितरं तथा
अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः
महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः
गोमयेनोपतिप्योर्वों स्थानं कृत्वा तु सैकतम्
त्रिरुल्लिखेत् तस्य मध्यं दर्भेणैकेन चैव हि
त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः
तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित्
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः
मांसान्यपूपान् विविधान् दद्यात् कृसरपायसम्
अन्नं चैव यथाकामं विविधं भक्ष्यपेयकम्