मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः
ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः
महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः
तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः
निन्दितानाचरन्त्येते वर्जनीयाः प्रयत्नतः
संनिपात्य द्विजान् सर्वान् साधुभिः संनिमन्त्रयेत्
असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान्
अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः
वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम्
वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः
भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम्
स याति नरकं घोरं सूकरत्वां प्रायाति च
स तस्मादधिकः पापी विष्ठाकीटो ऽभिजायते
ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते
भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः
भवन्ति तस्य तन्मासं पितरो मलभोजनाः
अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः
समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान्
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा
स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः
सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः
असुरोपहतं सर्वं तिलैः शुद्ध्यत्यजेन वा
चोष्यपेयसमृद्धं च यथाशक्त्या प्रकल्पयेत्
अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम्
पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम्
पाद्यमाचमनीयं च संप्रयच्छेद् यथाक्रमम्
प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च
दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः
आसध्वमिति संजल्पन् आसनास्ते पृथक् पृथक्