न तस्य तद् भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम्
मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः
विद्धप्रजननश्चैव स्तेनः क्लीबो ऽथ नास्तिकः
आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः
पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः
हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णिस्तथैव च
मित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्तकः
गोत्रभिद् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च
समुद्रयायी कृतहा तथा समयभेदकः
द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु
मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः
ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः
महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः
तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः
निन्दितानाचरन्त्येते वर्जनीयाः प्रयत्नतः
संनिपात्य द्विजान् सर्वान् साधुभिः संनिमन्त्रयेत्
असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान्
अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः
वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम्
वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः
भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम्
स याति नरकं घोरं सूकरत्वां प्रायाति च
स तस्मादधिकः पापी विष्ठाकीटो ऽभिजायते
ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते
भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः
भवन्ति तस्य तन्मासं पितरो मलभोजनाः
अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः
समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान्
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा