अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः
असंबन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः
अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा
सर्वालाभे साधकं वा गृहस्थमपि भोजयेत्
फलं वेदविदां तस्य सहस्रादतिरिच्यते
भोजयेद् हव्यकव्येषु अलाभादितरान् द्विजान्
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत्
पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते
तथानृचे हविर्दत्त्वा न दाता लभते फलम्
तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान्
यत्रैते भुञ्जते हव्यं तद् भवेदासुर द्विजाः
स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन
बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः
वेदविक्रायिणो ह्येते श्राद्धादिषु विगर्हिताः
असमानान् याजयन्ति पतितास्ते प्रकीर्तिताः
अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः
कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः
न तस्य तद् भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम्
मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः
विद्धप्रजननश्चैव स्तेनः क्लीबो ऽथ नास्तिकः
आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः
पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः
हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णिस्तथैव च
मित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्तकः
गोत्रभिद् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च
समुद्रयायी कृतहा तथा समयभेदकः
द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु