वार्ध्रोणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते
कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा
राजमाषांस्तथा क्षीरं माहिषं च विवर्जयेत्
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः
पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः
तीर्थं तद् हव्यकव्यानां प्रदाने चातिथिः स्मृतः
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः
बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाथ यो भवेत्
अथर्वशिरसो ऽध्येता रुद्राध्यायी विशेषतः
मन्त्रब्राह्मणविच्चैव यश्च स्याद् धर्मपाठकः
ब्रह्मदेयानुसंतानो गर्भशुद्धः सहस्रदः
गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः
महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः
सत्रिणो दाननिरता विज्ञेयाः पङ्क्तिपावनाः
सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः
अग्निचित्स्नातका विप्रा विज्ञेयाः पङ्क्तिपावनाः
अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः
श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः
अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः
असंबन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः
अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा
सर्वालाभे साधकं वा गृहस्थमपि भोजयेत्
फलं वेदविदां तस्य सहस्रादतिरिच्यते
भोजयेद् हव्यकव्येषु अलाभादितरान् द्विजान्
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत्
पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्