तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम्
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम्
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत्
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात्
देशानां च विशेषेण भवेत् पुण्यमनन्तकम्
गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः
तेषां तु समवेतानां यद्येको ऽपि गायां व्रजेत्
तारिताः पितरस्तेन स याति परमां गतिम्
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः
वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन्
विदार्याश्च भरण्डाश्च श्राद्धकाले प्रादपयेत्
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान्
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु
अष्टावेणस्य मांसेन रौरवेण नवैव तु
शशकूर्मर्योर्मांसेन मासानेकादशैव तु
वार्ध्रोणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते
कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा
राजमाषांस्तथा क्षीरं माहिषं च विवर्जयेत्
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः
पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः
तीर्थं तद् हव्यकव्यानां प्रदाने चातिथिः स्मृतः
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः
बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाथ यो भवेत्