मूले कृषिं लभेद् यानसिद्धिमाप्ये समुद्रतः
श्रविष्ठायां तथा कामान् वारुणे च परं बलम्
याम्ये ऽथ जीवनं तत् स्याद्यदि श्राद्धं प्रयच्छति
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान्
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान्
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान्
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत्
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम्
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम्
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत्
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात्
देशानां च विशेषेण भवेत् पुण्यमनन्तकम्
गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः
तेषां तु समवेतानां यद्येको ऽपि गायां व्रजेत्
तारिताः पितरस्तेन स याति परमां गतिम्
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः
वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन्
विदार्याश्च भरण्डाश्च श्राद्धकाले प्रादपयेत्
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान्
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु
अष्टावेणस्य मांसेन रौरवेण नवैव तु
शशकूर्मर्योर्मांसेन मासानेकादशैव तु