ग्रहकाले च नाश्नीयात् स्नात्वाश्नीयात् तु मुक्तयोः
अमुक्तयोरस्तङ्गतयोरद्याद् दृष्ट्वा परे ऽहनि
न यज्ञशिष्टादन्द् वा न क्रुद्धो नान्यमानसः
वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम्
सोपानत्कश्च यद् भुङ्क्ते सर्वं विद्यात् तदासुरम्
न च भिन्नासनगतो न शयानः स्थितो ऽपि वा
नोच्छिष्टो घृतमादद्यान्न मूर्धानं स्पृशेदपि
नान्धकारे न चाकाशे न च देवालयादिषु
न पादुकानिर्गतो ऽथ न हसन् विलपन्नपि
इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत्
आसीनस्तु जपेद् देवीं गायत्रीं पश्चिमां प्रति
स शूद्रेण समो लोके सर्वधर्मविवर्जितः
सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि
न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित्
नानुवंशं न पालाशे शयने वा कदाचन
ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम्
स याति नरकान् घोरान् काकयोनौ च जायते
तस्मात् कर्माणि कुर्वोत तुष्टये परमेष्ठिनः
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम्
अपराह्ने द्विजातीनां प्रशस्तेनामिषेण च
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तराः
तिस्त्रश्चान्वष्टकाः पुण्या माघी पञ्चदशी तथा
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने
बान्धवानां च मरणे नारकी स्यादतो ऽन्यथा
अयने विषुवे चैव व्यतीपाते ऽप्यनन्तकम्
नक्षत्रेषु च सर्वेषु कार्यं काम्यं विशेषतः
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम्
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम्
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम्