दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः
भुञ्जीत बन्धुभिः सार्धं वाग्यतो ऽन्नमकुत्सयन्
भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं सगच्छति
नाशयत्याशु पापानि देवानामर्चनं तथा
भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते
भुञ्जीत स्वजनैः सार्धं सयाति परमां गतिम्
आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखाः
उपवासेन तत्तुल्यं मनुराह प्रजापतिः
आचम्यार्द्राननो ऽक्रोधः पञ्चार्द्रे भोजनं चरेत्
अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत्
अपानाय ततो हुत्वा व्यानाय तदनन्तरम्
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम्
आचान्तः पुनराचामेदायं गौरिति मन्त्रतः
प्राणानां ग्रन्थिरसीत्यालभेद् हृदयं ततः
निः स्त्रवयेद् हस्तजलमूर्ध्वहस्तः समाहितः
अथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणेति हि
यो ऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम्
सायंप्रापर्नान्तरा वै संध्यायां तु विशेषतः
ग्रहकाले च नाश्नीयात् स्नात्वाश्नीयात् तु मुक्तयोः
अमुक्तयोरस्तङ्गतयोरद्याद् दृष्ट्वा परे ऽहनि
न यज्ञशिष्टादन्द् वा न क्रुद्धो नान्यमानसः
वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम्
सोपानत्कश्च यद् भुङ्क्ते सर्वं विद्यात् तदासुरम्
न च भिन्नासनगतो न शयानः स्थितो ऽपि वा
नोच्छिष्टो घृतमादद्यान्न मूर्धानं स्पृशेदपि
नान्धकारे न चाकाशे न च देवालयादिषु
न पादुकानिर्गतो ऽथ न हसन् विलपन्नपि
इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत्