आराधयेन्महादेवं भावपूतो महेश्वरम्
ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः
उक्त्वा नमः शिवायेति मन्त्रेणानेन योजयेत्
निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम्
ध्यायीत देवमीशानं व्योममध्यगतं शिवम्
कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत्
कुशपुञ्जे समासीनः कुशपाणिः समाहितः
वैश्वदेवं ततः कुर्याद् देवयज्ञः स वै स्मृतः
शालाग्नौ तत्र देवान्नं विधिरेष सनातनः
भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम्
दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो ऽथ द्विजोत्तमः
भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते
नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत्
मनोवाक्कर्मभिः शान्तमागतं स्वगृह ततः
दद्यादतिथये नित्यं बुध्येत परमेश्वरम्
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते
अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः
भुञ्जीत बन्धुभिः सार्धं वाग्यतो ऽन्नमकुत्सयन्
भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं सगच्छति
नाशयत्याशु पापानि देवानामर्चनं तथा
भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते
भुञ्जीत स्वजनैः सार्धं सयाति परमां गतिम्
आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखाः
उपवासेन तत्तुल्यं मनुराह प्रजापतिः
आचम्यार्द्राननो ऽक्रोधः पञ्चार्द्रे भोजनं चरेत्