सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम्
इदमापः प्रवहत व्याहृतिभिस्तथैव च
अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम्
आवर्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम्
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः
तथाघमर्षणं सूक्तं सर्वपापापनोदनम्
प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि
हंसः शुचिषदेतेन सावित्र्या च विशेषतः
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः
शतरुद्रीयमथर्वशिरः सौरांश्च शक्तितः
तिष्ठंश्चेदीक्षमाणोर्ऽकं जप्यं कुर्यात् समाहितः
कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता
न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत्
एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत्
तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः
सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत्
अदावोङ्कारमुच्चार्य नमो ऽन्ते तर्पयामि वः
तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः
देवर्षोस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन्
प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावतः
स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः
अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनो ऽत्वरः
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः
नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक्
तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम्
नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि
तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः